|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.78. अध्यायः 078
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
देवशर्मणा स्वशिष्यं विपुलम्प्रति तद्द्वष्टानां मिथुनानां षट्पुरुषाणां च क्रमेणाहोरात्रऋत्वभिमानिदवतात्वकथनम्॥ 1 ॥ तथा स्वस्मिन्स्वदाररक्षणाय योगेन तच्छरीरप्रवेशानिवेदनस्य दुर्गतिहेतुत्वकथनम्॥ 2 ॥ तथा तत्कृतस्वदाररक्षमपरितोषेण तद्दुरितदूरीकरणपूर्वकं तेन स्वभार्यया च सह स्वर्गे सुखविहरणम्॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्।
देवशर्मा महातेजा यत्तच्छृणु जनाधिप॥ 13-78-1(84534)
देवशर्मोवाच। 13-78-2x(7020)
किं त्वया मिथुनं दृष्टं तस्मिञ्शिष्य महावने।
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च॥ 13-78-2(84535)
विपुल उवाच। 13-78-3x(7021)
ब्रह्मर्षे मिथुनं किन्तत्के च षट्पुरुषा विभो।
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि॥ 13-78-3(84536)
देवशर्मोवाच। 13-78-4x(7022)
यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत्।
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम्॥ 13-78-4(84537)
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्।
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्॥ 13-78-5(84538)
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्।
नरो रहसि पापात्मा पापकं कर्म वै द्विज॥ 13-78-6(84539)
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा।
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत॥ 13-78-7(84540)
तथैव हि भवेयुस्ते लोकाः पापकृतो यथा।
कृत्वाऽनाचक्षतः कर्म मम तच्च यथा कृतम्॥ 13-78-8(84541)
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्।
स्मारयन्तस्तथा प्राहुस्ते यथा श्रउतवान्भवान्॥ 13-78-9(84542)
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः।
पुरुषे पापकं कर्म शुभं वाऽशुभकर्मिणः॥ 13-78-10(84543)
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम्।
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज॥ 13-78-11(84544)
तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा।
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम्॥ 13-78-12(84545)
तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज।
न च त्वं कृतवान्किंचिदागः प्रीतोस्मि तेन ते॥ 13-78-13(84546)
`मनोदोषविहीनानां न दोषः स्यात्तथा तव।
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा॥ 13-78-14(84547)
यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः।
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते॥ 13-78-15(84548)
लालेत्युद्विजते लोको वक्त्रासव इति स्पहा।
अबन्धायोग्यमनसामिति मन्त्रात्मदैवकम्॥ 13-78-16(84549)
न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम्।
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः॥ 13-78-17(84550)
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम।
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा॥ 13-78-18(84551)
सञ्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः।
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे॥ 13-78-19(84552)
रक्षिता च त्वया पुत्र मम चापि निवेदिता।
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि॥ 13-78-20(84553)
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः।
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः॥ 13-78-21(84554)
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः।
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे॥ 13-78-22(84555)
तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च।
उभयं दृश्यते तासु सततं साध्वसाधु च॥ 13-78-23(84556)
स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः।
धारयन्ति महीं राजन्निमां सवनकाननाम्॥ 13-78-24(84557)
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः।
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप॥ 13-78-25(84558)
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः।
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः॥ 13-78-26(84559)
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः।
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः॥ 13-78-27(84560)
एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ।
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन॥ 13-78-28(84561)
नासु स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर।
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह।
`अनृताविह पर्वादिदोषवर्जं नराधिप॥' 13-78-29(84562)
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन।
सर्वथा राजशार्दूल युक्तः सर्वत्र युज्यते॥ 13-78-30(84563)
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः।
नान्यः शक्तस्त्रिलोकेऽस्मिन्रक्षितुं नृप योषितः॥ ॥ 13-78-31(84564)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टसप्ततितमोऽध्यायः॥ 78 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-78-9 हर्षस्मितं हर्षेण गर्वितम्॥ 7-78-12 तेनैव अनाख्यानेनैव॥ 7-78-16 लाला वदनात्स्वतो गलज्जलधारा॥ 7-78-25 सहजैः पीणिपादरेखादिभिः॥ 7-78-28 कृत्याः प्राणग्राहिदेवतारूपाः॥ 7-78-29 खेदमास्तायाऽप्रीत्या विष्टिगृहीतवत् भुञ्जीत नतु प्रीत्या। धर्मं ऋतुकालानुरोधम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|